Tuesday, September 15, 2009

కలి సంతరణం

శ్లో. యద్దివ్య నామస్మరతాం సంసారో గోష్పదాయతే
స్వానన్యభక్తిర్భవతి తద్రామపద మాశ్రయే

ॐ सह नाववतु . सह नौ भुनक्तु .
सह वीर्यंकरवावहै . तेजस्विनावधीतमस्तु मा विद्विषावहै .
ॐ शान्तिः शान्तिः शान्तिः .

हरिः ॐ . द्वापरान्ते नारदो ब्रह्माणं जगाम कथं भगवन् गां पर्यटन् कलिं सन्तरेयमिति .
स होवाच ब्रह्मा साधु पृष्टोऽस्मि सर्वश्रुतिरहस्यं गोप्यं तच्छृणु येन कलिसंसारं तरिष्यसि .
भगवत आदिपुरुषस्य नारायनस्य नामोच्चारणमात्रेण निर्धृतकलिर्भवतीति .. १

नारदः पुनः पप्रच्छ तन्नाम किमिति . स होवाच हिरण्यगर्भः .
हरे राम हरे राम राम राम हरे हरे . हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे
इति षोडशकं नाम्नां कलिकल्मषनाशनम् . नातः परतरोपायः सर्ववेदेषु दृश्यते
षोडशकलावृतस्य जीवस्यावरणविनाशनम् . ततः प्रकाशते परं ब्रह्म मेघापाये रविरश्मिमण्डलीवेति .. २

पुनर्नारदः पप्रच्छ भगवन् कोऽस्य विधिरिति . तं होवाच नास्य विधिरिति . सर्वदा शुचिरशुचिर्वा पठन् ब्राह्मणः सलोकतां समीपतां सरूपतां सायुज्यमेति . यदास्य षोडशकस्य सार्धत्रिकोटीर्जपति तदा ब्रह्महत्यां तरति . तरति वीरहत्याम् . स्वर्णस्तेयात् पूतो भवति . वृषलीगमनात् पूतो भवति . पितृदेवमनुष्याणामपकारात् पूतो भवति . सर्वधर्मपरित्यागपापात् सद्यः शुचितामाप्नुयात् . सद्यो मुच्यते सद्यो मुच्यते इत्युपनिषत् .. ३

ॐ सह नाववतु . सह नौ भुनक्तु .
सह वीर्यंकरवावहै . तेजस्विनावधीतमस्तु मा विद्विषावहै .
ॐ शान्तिः शान्तिः शान्तिः .

-- అజ ఏకాదశి సందర్భంగా

Note: English Translation can be found at http://www.celextel.org/upanishads/krishna_yajur_veda/kalisantarana.html

No comments: