Friday, September 18, 2009

బ్రహ్మవేద, చాంద్రమస, యోగయుక్త మార్గాలు

यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः .
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ .. ८\.२३..

अग्निर्जोतिरहः शुक्लः षण्मासा उत्तरायणम् .
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः .. ८\.२४..

धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् .
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते .. ८\.२५..

शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते .
एकया यात्यनावृत्तिमन्ययावर्तते पुनः .. ८\.२६..

नैते सृती पार्थ जानन्योगी मुह्यति कश्चन .
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन .. ८\.२७..

-- శ్రీమద్భగవద్గీత నుంచి, మహాలయ అమావాస్య సందర్భంగా

No comments: