Tuesday, February 8, 2011

శ్రీ పంచమి - సరస్వతీ స్తవము

सरस्वती स्तवम्

याज्ञवल्क्य उवाच​:
1.
कृपां कुरु जगन्मातर्
मामेवं हत तेजसम् ।
गुरुशापात् स्मृतिभ्रष्टं
विद्याहीनं च दुःखितम् ॥
2.
ज्ञनं देहि स्मृतिं विद्यां
शक्तिं शिष्य प्रबोधिनीम् ।
ग्रंथकर्तृत्व शक्तिं च​
सुशिष्यं सुप्रतिष्ठितम् ॥
3.
प्रतिभां सत्सभायां च​
विचार क्षमतां शुभाम् ।
लुप्तं सर्वं दैवयोगा-
न्नवीभूतम् पुनः कुरु ॥
4.
यथांऽकुरं भस्मनि च
करोति देवता पुनः ।
ब्रह्मस्वरूपा परमा
ज्योतीरूपा सनातनी ॥
5.
सर्व विद्याधिदेवी या
तस्यै वाण्यै नमो नमः ।
विसर्ग बिंदु मात्रासु
यदधिष्ठानमेव च ॥
6.
तदधिष्ठात्री या देवी
तस्यै वाण्यै नमो नमः ।
व्याख्यास्वरूपा सा देवी
व्यख्याधिष्ठातृरूपिणी ॥
7.
यया विना प्रसंख्यावान्
संख्यां कर्तुं न शक्यते ।
कालसंख्या स्वरूपा या
तस्यै देव्यै नमो नमः ॥
8.
भ्रम सिद्धांत रूपा या
तस्यै देव्यै नमो नमः ।
स्मृतिशक्ति ज्ञानशक्ति
बुद्धिशक्ति स्वरूपिणी ॥
9.
प्रतिभा कल्पना शक्तिर्
या च तस्यै नमो नमः ।
सनत्कुमारो ब्रह्माणं
ज्ञानं पप्रच्छ यत्र वै ॥
10.
बभूव मूकवत्सोऽपि
सिद्धांतं कर्तुमक्षमः ।
तदाऽऽजगाम भगवा-
नात्मा श्रिकृष्ण ईश्वरः ॥
11.
उवाच स च तां स्तौहि
वाणी विष्टां प्रजापते ।
स च तुष्टाव तां ब्रह्मा
चाज्ञया परमात्मनः ॥
12.
चकार तत्प्रसादेन
तदा सिद्धांत मुत्तमम् ।
यदाप्यनंतं पप्रच्छ
ज्ञानमेकं वसुंधरा ॥
13.
बभूव मूकवत्सोऽपि
सिद्धांतं कर्तुमक्षमः ।
तदा तां च स तुष्टाव
संत्रस्तः कश्यपाज्ञया ॥
14.
ततश्चकार सिद्धांतं
निर्मलं भ्रम भंजनम् ।
व्यासः पुराणसूत्रं च
पप्रच्छ वाल्मीकिं यदा ॥
15.
मौनीभूतश्च सस्मार
तामेव जगदंबिकाम् ।
तदा चकार सिद्धांतं
तद्वरेण मुनीश्वरः ॥
16.
संप्राप्य निर्मलं ज्ञानं
भ्रमांध्यध्वंसदीपकम् ।
पुराणसूत्रं श्रुत्वा च
व्यासः कृष्णकलोद्भवः ॥
17.
तां शिवां वेद दध्यौ च
शतवर्षं च पुष्करे ।
तदा त्वत्तो वरं प्राप्य
सत्कवीन्द्रो बभूव ह ॥
18.
तदा वेद विभागं च
पुराणं च चकार सः ।
यदा महें द्रः पप्रच्छ
तत्त्वज्ञानं सदाशिवम् ॥
19.
क्षणं तामेव संचिन्त्य
तस्मै ज्ञानं ददौ विभुः ।
पप्रच्छ शब्दशास्त्रं च
महेंद्रश्च बृहस्पतिम् ॥
20.
दिव्य वर्ष सहस्रं च
स त्वां दध्यौ च पुष्करे ।
तदा त्वत्तो वरं प्राप्य
दिव्यवर्षसहस्रकम् ॥
21.
उवाच शब्दशास्त्रं च
तदर्थं च सुरेश्वरम् ।
अध्यापिताश्च ये शिष्या
यैरधीतं मुनीश्वरैः ॥
22.
ते च तां परिसंचित्य
प्रवर्तंते सुरेश्वरीम् ।
त्वं सम्स्तुता पूजिता च
मुनीन्द्रैर्मनु मानवैः ॥
23.
दैत्येन्द्रैश्च सुरैश्चापि
ब्रह्म विष्णुशिवादिभिः ।
जडीभूत स्सहस्रास्यः
पंचवक्त्र श्चतुर्मुखः ॥
24.
यां स्तोतुं किमहं स्तौमि
तामेकास्येन मानवः ।
इत्युक्त्वा याज्ञवल्क्यश्च
भक्तिनम्रात्म कंधरः ॥
25.
प्रणनाम निराहारो
रुरोद च मुहुर्मुहुः ।
ज्योतिरूपा महामाया
तेन दृष्टाऽप्युवाच तम् ॥
26.
सुकवीन्द्रो भवेत्युक्त्वा
वैकुंठं च जगाम ह ।
याज्ञवल्क्य कृतं वाणी
स्तोत्रमेतत्तु यः पठेत् ॥
27.
स कवीन्द्रो महावाग्मी
बृहस्पतिसमो भवेत् ।
महा मूर्खश्च दुर्बुद्धिर्
वर्षमेकं यदा पठेत् ॥
स पंडितश्च मेधावी
सुकवीन्द्रो भवेद्ध्रुवम्

इति श्री देवी भागवते महापुराणे नवम स्कंधे सरस्वती स्तवनं नाम पंचमोध्यायः ॥

-- శ్రీ పంచమి (మాఘ శుద్ధ పంచమీ) సందర్భంగా